परिशिष्ट - अनुच्छेद लेखन

निबन्ध की तरह किसी भी विषय पर अनुच्छेद लिखा जा सकता है, किन्तु उसमें निबन्ध की तरह विभाग नहीं रहते। अनुच्छेद का आकार-प्रकार विस्तृत भी नहीं होता, वह सीमित पंक्तियों में लिखा जाता है।

परिशिष्ट - अनुच्छेद लेखन

परिशिष्ट - अनुच्छेद लेखन

निबन्ध की तरह किसी भी विषय पर अनुच्छेद लिखा जा सकता है, किन्तु उसमें निबन्ध की तरह विभाग नहीं रहते। अनुच्छेद का आकार-प्रकार विस्तृत भी नहीं होता, वह सीमित पंक्तियों में लिखा जाता है।
अनुच्छेद लिखने में यह ध्यान रखना चाहिए कि उसकी भाषा सरल और सुबोध हो तथा संक्षेप में वर्ण्य विषय की मुख्य बातें समाविष्ट हो जाएँ। जिस विषय पर अनुच्छेद लिखना हो, उसकी सारी संक्षिप्त सामग्री एक ही अनुच्छेद (पैराग्राफ) में आ जानी चाहिए। उसका कोई अंश दूसरे अनुच्छेद में नहीं लिखा जाना चाहिए। नीचे कुछ विषयों पर अनुच्छेद लिखे गए हैं, जिनको दृष्टि में रखते हुए छात्रों को चाहिए कि वे अन्य विषयों पर भी अनुच्छेद लिखने का अभ्यास करें।
प्रातः कालः
प्रातःकालः अतिशोभनः भवति। तस्मिन् काले उदितः सूर्यः अन्धकारं नाशयति तथा प्रकाशं तनोति। अस्मिन् समये मन्दं मन्दं शीतलः पवनः वहति । खगाः कूजन्ति । पुष्पाणि विकसन्ति। सर्वे जनाः स्वकार्ये संलग्नाः भवन्ति । प्रातःकाले भ्रमणं स्वास्थ्यवर्द्धकम् उत्साहप्रदं च भवति ।
सरोवर:
ग्रामात् वहिः एकः मनोहरः सरोवरः वर्तते । तस्य जलम् अति निर्मलम् अस्ति। तस्मिन् विकसितानि कमलानि मनोहराणि दृश्यन्ते । पुष्पोपरि मकरंदलुब्धाः मधुकराः गुञ्जन्ति । अनेकविधाः पक्षिणः अपि तत्र सानन्दं कूजन्ति । सरोवरस्य तटे ध्यानमग्नाः वकाः अपि दृष्टिगोचराः भवन्ति। सरोवरस्य निर्मले जले जनाः स्नानं कुर्वन्ति।
भारतवर्षम्
अस्माकं देशः भारतवर्षम् अस्ति। अस्य उत्तरस्यां पर्वतराजः हिमालयः शोभते । भारतवर्षस्य संस्कृतिः प्राचीनतमा विद्यते। अस्मिन् देशे व्यास-वाल्मीकि-भवभूतिकालिदास प्रभृतयः महाकवयः अभवन् । अत्रत्यैः विद्वद्भिः सर्वविधानि शास्त्राणि निर्मितानि। गङ्गा-यमुना- सरयू-ब्रह्मपुत्रादयः नद्यः भारतभूमिम् उर्वरां कुर्वन्ति। अस्मिन् देशे षड् ऋतवो भवन्ति । पुरा अयम् सम्पन्नः देशः पराधीनः आसीत् । किन्तु इदानीं स्वतन्त्रः संजातः।
गङ्गानदी
गङ्गा एका पवित्रा नदी विद्यते । इयम् हिमालयात् निर्गच्छति। अस्याः जलं पवित्रं पापनाशकम् भवति। धार्मिकाः जनाः गङ्गायां स्नानं कृत्वा पुण्यं लभन्ते । हिन्दूनाम् सर्वाणि यज्ञकर्माणि गङ्गाजलेनैव सम्पन्नानि भवन्ति । अस्याः तटे अनेकानि विशालानि नगराणि तथा तीर्थस्थानानि अवस्थितानि सन्ति । श्रूयते पुरा नृपः भगीरथः स्वर्गात् गङ्गां पृथिव्याम् आनीतवान्।
हिमालय:
भारतस्य उत्तरस्याम् दिशि पर्वतराजः हिमालयः वर्तते । अयं पर्वतः हिमाच्छादितः अस्ति। हिमालयात् निर्गत्य नद्यः भारतभूमिम् उर्वरां कुर्वन्ति । अस्य कन्दरासु ऋषयः तपस्यां कुर्वन्तिस्म। अधुनापि तत्र दीर्घजीविनः योगिनः यदा-कदा दृश्यन्ते। हिमालये बहुविधानि काष्ठानि, खनिजद्रव्याणि औषधानि च मिलन्ति। अस्य उच्चतमे शिखरे महादेवस्य निवासः पुराणे वर्णितः । भारतीयानां कृते हिमालयः देवोपमः अस्ति।
मम विद्यालय:
मम विद्यालयः नद्याः तटे अवस्थितः । अस्मिन् विद्यालये नव प्रकोष्ठाः सन्ति। तेषु एकः कार्यालयः अस्ति । विद्यालये द्विशतं छात्राः पठन्ति। सर्वे छात्राः नुशासिताः सन्ति। योग्यतमाः शिक्षकाश्छात्रान् मनोयोगपूर्वकं अध्यापयन्ति । विद्यालयस्य परिसरे एका सज्जिता पुष्पवाटिका अपि विद्यते। एकं क्रीडाक्षेत्रम् अपि अस्ति। तस्मिन् छात्राः कन्दुकेन क्रीडन्ति ।
मम गृहम्
ग्रामस्य मध्ये पर्णनिर्मितं (फूस का बना) मम गृहम् अस्ति । गृहस्य अग्रे एकः राजमार्गः अस्ति। गृहस्य पूर्वस्यां दिशि एका वाटिका वर्तते । तस्याम् अनेकविधानि पुष्पाणि शाकाश्च सन्ति। मम गृहे पञ्च प्रकोष्ठाः विद्यन्ते, एकस्मिन् प्रकोष्ठे पाकः भवति । एकस्मिन् अन्नभण्डारः अस्ति। त्रिषु प्रकोष्ठेषु परिवारस्य जनाः निवसन्ति । मम गृहे एका दुग्धवती धेनुः अपि अप्ति। मम भ्राता अष्टमे वर्गे पठति । पिता कृषिकार्यं करोति ।
पुष्पम्
संसारस्य मनोहरं वस्तु पुष्पम् अस्ति । इदं अतिकोमलं भवति । पुष्पस्य कमलम्, चम्पा, पाटलम्, वकुलं, यूथिका, रजनीगंधा इत्यादयः बहवः प्रकाराः सन्ति । सुगन्धीनि पुष्पाणि प्रियाणि भवन्ति। पुष्पैः देवानाम् पूजनं भवति । पुष्पाणां सौरभं पवनः चतुर्दिक्षु प्रसारयति । मधुलोलुपाः भ्रमराः पुष्पाणाम् उपरि गुञ्जन्ति । रसिकैः जनैः पुष्पहारः वक्षसि धार्यते।
मम शरीरस्य अङ्गानि
मम शरीरे विभिन्नानि अङ्गानि सन्ति । मम द्वौ हस्तौ स्तः, याभ्याम् अहं सर्वाणि कार्याणि सम्पादयामि। द्वौ चरणौ स्तः याभ्याम् अहम् चलामि। नेत्राभ्यां पश्यामि। नासिकया श्वासं गृह्णामि त्यजामि, गंधं च जिघ्रामि । कर्णाभ्यां शृणोमि । मुखेन खादामि। मस्तिष्कप्रदेशे विविधाः भावाः सञ्चरन्ति । उदरं भोजनं पाचयति तथा रस-रक्तादिकं सृष्ट्वा सर्वाणि अङ्गानि पोषयति। वस्तुतः उदरम् अङ्गानाम् विवेकशीलः नायकः अस्ति।
आदर्श: : छात्र:
आदर्शछात्रः अध्ययनशीलः भवति । स सच्चरित्रः अनुशासितः अपि भवति। स सर्वदा गुरोः आज्ञां पालयति। आदर्शछात्रः हट्टे पण्यवीथिकायां (बाजार में) वा वृथा न भ्रमति। स न केवलं पाठाभ्यासं करोति सामाजिक कार्यम् अपि मनसा करोति । कुत्रापि उद्दण्डतां न प्रदर्शयति। आदर्शछात्रः परिश्रमी परोपकारी सत्यनिष्ठः च भवति । एतादृशः छात्रः एव अध्यापकानां सहपाठिनाम् अन्येषाम् च प्रियो भवति।
गौः
गौः एकः पोष्यः (पालतू) पशुः अस्ति। सा तृणम् अन्नं च खादति। गोः दुग्धं मधुरं शक्तिवर्द्धकं भवति। दुग्धात् नवनीतं भवति, दधि भवति घृतं च भवति। अनेकानि मिष्टान्नानि दुग्धेनैव निर्मीयन्ते । गोविट् (गोबर) उर्वरकरूपेण क्षेत्रस्य उर्वराशक्तिं वर्द्धयति । गोमूत्रम् अनेकान् रोगान् नाशयति । गोः वत्सः वृषभः हलं कर्षति । अतः कृषिकार्येऽपि गौः सहायिका भवति।
अश्वः
अश्वः द्रुतगामी पशुः अस्ति । अयं हरितं घासं खादति । अन्नम् अपि भक्षयति। अयं शोभनः वाहनः (सवारी) अस्ति । पुरा अश्वः चतुरंगिणी सेनायाम् प्रमुखः आसीत्। इदानीम् अपि शान्तिस्थापनार्थम् अश्वारोहिण: (घुड़सवार) सैनिकाः सन्ति । धनिकानां रसिकानां च कृते अयं प्रियः पशुः अस्ति। अस्मिन् यन्त्रयुगे अयं महत्त्वहीनः संजातः ।
गज:
गजः स्थूलतमः महान् पशुः भवति । स वृक्षाणां शाखापत्रादिकं खादति । अन्नं मोदकं च भक्षयति । अयं सुखदायकः वाहनः अस्ति । वर्षाकाले कर्दमे अपि (कीचड़ में भी) अयं चलति। प्राचीनसमये गजः अपि सेनायाः प्रमुखम् अङ्गम् आसीत्। इदानीं तु केवलं वरयात्रिकायां (बारात में) प्रदर्शने च अस्य उपयोगः भवति।
कुक्कुरः
कुक्कुरः मांसाहारी जन्तुः अस्ति । अयम् अन्नादिकम् अपि भक्षयति । कुक्कुरः स्वामिभक्तः भवति। अपरिचितं दृष्ट्वा अयम् उच्चस्वरेण बुक्कति । अस्य घ्राणशक्तिः अतितीव्रा भवति। अस्य बुक्कनं (भूँकना) श्रुत्वा चौराः पलायन्ते । सर्वस्मिन् देशे कुक्कुराः सन्ति। इदानीं प्रशिक्षिताः कुक्कुराः चौराणाम् चोरितवस्तूनाम् च अन्वेषणे उल्लेखनीयम् कार्यं कुर्वन्ति।
वसन्तः
वसन्तः ऋतुराजः कथ्यते । वसन्ते त्रिविधः समीर: वहति । वृक्षेषु नूतनानि पल्लवानि भवन्ति । उद्याने कोकिलाः कूजन्ति । अस्मिन् समये अनेकानि पुष्पाणि विकसन्ति । वसन्ते एव आम्र-लकुच- जम्बू-पनस-फलानि फलन्ति । वसन्तस्य शोभा अपूर्वा भवति ।
वर्षाकाल:
वर्षाकालः अति मनोरमः भवति। अस्मिन् काले आकाशः मेघैः आच्छादितः दृश्यते। वने मयूराः नृत्यन्ति । मण्डूका (मेढ़क) 'टर्र-टर्र' इति शब्दं कुर्वन्ति । वर्षायाः जलेन नद्यः तडागाः च सम्पूरिताः भवन्ति । क्षेत्राणि हरितानि दृश्यन्ते । वर्षायाः जलेन अन्न-फलशाकानाम् उत्पादनं अधिकं भवति ।
दुर्गापूजा
आश्विन मासस्य शुक्ले पक्षे दुर्गापूजनं भवति । अस्मिन् अवसरे दुर्गास्थाने देव्याः प्रतिमा स्थाप्यते । प्रतिपदायाः आरभ्य दशमीं यावत् भक्ताः गन्धपुष्पादिभिः देवीं अर्चयन्ति । बहवः जनाः दुर्गासप्तशती पाठं अपि कुर्वन्ति अथवा कारयन्ति (करवाते हैं)। विजयादशम्यां सायंकाले नद्याम् मूर्ति विसर्जनं क्रियते । श्रूयते चेतायां अस्मिन् एव दिने रामेण रावणः पराजितः अभवत् ।
सरस्वतीपूजा
माघशुक्लपञ्चम्यां सरस्वतीपूजनं भवति । अस्मिन् दिने छात्राः विद्यालये गंध-पुष्पफल-मिष्टान्नादिभिः सरस्वत्याः पूजां कुर्वन्ति । पूजायाः अनन्तरं प्रसादस्य वितरणं भवति। अस्मिन् अवसरे नृत्यगीतादि कार्यक्रमः आपि सम्पद्यते । परेः (दूसरे दिन) प्रातः काले नद्याम् तडागे वा प्रतिमायाः विसर्जनं क्रियते विद्यानुरागिनः अन्ये जनाः अपि सरस्वतीपूजनं कुर्वन्ति।
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here